|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.258. अध्यायः 258
Mahabharata - Adi Parva - Chapter Topics
जरितार्यादीनां चतुर्णां शार्ङ्गकाणां परस्परं संवादः॥ 1 ॥ स्तुत्या प्रसन्नेनाग्निना तेभ्योऽभयदानम्॥ 2 ॥ शार्ङ्गकाणां प्रार्थनया अग्निना मार्जाराणां दाहः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
जरितारिरुवाच। 1-258-0x(1351)(11169)
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पुरुषः।
स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित्॥ 1-258-1(11170)
यस्तु कृच्छ्रमनुप्राप्तं विचेता नावबुध्यते।
सकृच्छ्रकाले व्यथितो न श्रेयो विन्दते महत्॥ 1-258-2(11171)
सारिसृक्व उवाच। 1-258-3x(1352)
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः।
प्राज्ञः शूरो बहूनां हि भवत्येको न संशयः॥ 1-258-3(11172)
स्तम्बमित्र उवाच। 1-258-4x(1353)
ज्येष्ठस्तातो भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः।
ज्येष्ठश्चेन्न प्रजानाति नीयान्किं करिष्यति॥ 1-258-4(11173)
द्रोण उवाच। 1-258-5x(1354)
हिरण्यरेतास्त्वरितो जलन्नायाति नः क्षयम्।
सप्तजिह्वाननः क्रूरो लिहानो विसर्पति॥ 1-258-5(11174)
वैशम्पायन उवाच। 1-258-6x(1355)
एवं संभाष्य तेऽन्योन्यं मन्दपालस्य पुत्रकाः।
तुष्टुवुः प्रयता भूत्वा यथाऽग्निं शृणु पार्थिव॥ 1-258-6(11175)
जरितारिरुवाच। 1-258-7x(1356)
आत्माऽसि वायोर्ज्वलन शरीरमसि वीरुधाम्।
योनिरापश्च ते शुक्रं योनिस्त्वमसि चाम्भसः॥ 1-258-7(11176)
ऊर्ध्वं चाधश्च सर्पन्ति पृष्ठतः पार्श्वतस्तथा।
अर्चिषस्ते महावीर्य रश्यमः सवितुर्यथा॥ 1-258-8(11177)
सारिसृक्क उवाच। 1-258-9x(1357)
माता प्रणष्टा पितरं न विद्मः
पक्षा जाता नै नो धूमकेतो।
न नस्त्राता विद्यते वै त्वदन्य-
स्तस्मादस्मांस्त्राहि बालांस्त्वमग्ने॥ 1-258-9(11178)
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः।
तेन नः परिपाहि त्वमार्तान्नः शरणैषिणः॥ 1-258-10(11179)
त्वमेवैकस्तपसे जप्तवेदो
नान्यस्तप्ता विद्यते गोषु देव।
ऋषीनस्मान्बालकान्पालयस्व
परेणास्मान्प्रेहि वै हव्यवाह॥ 1-258-11(11180)
स्तम्बमित्र उवाच। 1-258-12x(1358)
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत्।
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च॥ 1-258-12(11181)
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः।
मनीषिणस्त्वां जानन्ति बहुधा चैकधापि च॥ 1-258-13(11182)
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह
काले प्राप्ते पचसि पुनः समिद्धः।
त्वं सर्वस्य भुवनस्य प्रसूति-
स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा॥ 1-258-14(11183)
द्रोण उवाच। 1-258-15x(1359)
त्वमन्नं प्राणिभिर्भुक्तमन्तर्भूतो जगत्पते।
नित्यप्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम्॥ 1-258-15(11184)
सूर्यो भूत्वा रश्मिभिर्जातवेदो
भूमेरम्भो भूमिजातान्रसांश्च।
विश्वानादाय पुनरुत्सृज्य काले
दृष्ट्वा वृष्ट्या भावयसीह शुक्र॥ 1-258-16(11185)
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः।
जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः॥ 1-258-17(11186)
इदं वै सद्म तिग्मांशो वरुणस्य परायणम्।
शिवस्त्राता भवास्माकं माऽस्मानद्य विनाशय॥ 1-258-18(11187)
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन।
परेण प्रेहि मुञ्चास्मान्सागरस्य गृहानिव॥ 1-258-19(11188)
वैशम्पायन उवाच। 1-258-20x(1360)
एवमुक्तो जातवेदा द्रोणेन ब्रह्मवादिना।
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया॥ 1-258-20(11189)
अग्निरुवाच। 1-258-21x(1361)
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं
ईप्सितं ते करिष्यामि न च ते 1-258-21(11190)
मन्दपालेन वै यूयं मम पूर्वं निवेदिताः।
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह॥ 1-258-22(11191)
तस्य तद्वचनं द्रोण त्वया यच्चेह भाषितम्।
उभयं मे गरीयस्तु ब्रूहि किं करवाणि ते।
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मंस्तोत्रेण सत्तम॥ 1-258-23(11192)
द्रोण उवाच। 1-258-24x(1362)
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः।
एतान्कुरुष्व दग्धांस्त्वं हुताशन सबान्धवान्॥ 1-258-24(11193)
वैशम्पायन उवाच। 1-258-25x(1363)
तथा तत्कृतवानग्निरभ्यनुज्ञाय शार्ङ्गकान्।
ददाह खाण्डवं दावं समिद्धो जनमेजय॥ ॥ 1-258-25(11194)
इति श्रीमन्महाभारते आदिपर्वणि मयदर्शनपर्वणि अष्टपञ्चाशदधिकद्विशततमोऽध्यायः॥ 258 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|